|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.219. अध्यायः 219
Mahabharata - Vana Parva - Chapter Topics
धर्मव्याधेन नानाधर्मान्बोधितेन कौशिकेन गृहमेत्य स्वपित्रोः शुश्रूषणम् ॥ 1 ॥ मार्कण्डेयेन युधिष्ठिरम्प्रति पतिव्रतामाहात्म्यादिकथनोपसंहारः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
व्याध उवाच। 3-219-0x(2515)(24554)
एवं शप्तोऽहमृषिणा तदा द्विजबरोत्तम।
अहं प्रासादयमृषिं गिरा वाक्यविशारदम् ॥ 3-219-1(24555)
अजानता मयाऽकार्यमिदमद्य कृतं मुने।
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥ 3-219-2(24556)
ऋषिरुवाच। 3-219-3x(2516)
नान्यथा भविता शाप एवमेतदसंशयम्।
आनृशंस्यात्त्वंहकिंचित्कर्ताऽनुग्रहमद्य ते ॥ 3-219-3(24557)
शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि।
मातापित्रोश् शुश्रूषां करिष्यसि न संशयः ॥ 3-219-4(24558)
तयोः शुश्रूषया सिद्धिं महतीं समवाप्स्यसि।
जातिस्मरश् भविता स्वर्गं चैव गमिष्यसि ॥ 3-219-5(24559)
`भूत्वाच धार्मिको व्याधः पित्रोः शुश्रूषणे रतः।
शापक्षये तु निर्वृत्ते भविताऽसि पुनर्द्विजः ॥ 3-219-6(24560)
एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा।
प्रसादश्च कृतस्तेन ममैव द्विपदांवर ॥ 3-219-7(24561)
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम।
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥ 3-219-8(24562)
एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत्।
अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम ॥ 3-219-9(24563)
ब्राह्मण उवाच। 3-219-10x(2517)
एवमेतानि पुरुषा दुःखानि च सुखानि च।
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ॥ 3-219-10(24564)
दुष्करं हि कृतंकर्म जानता जातिमात्मनः।
[लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण ॥] 3-219-11(24565)
कर्मदोषाच्च वै विद्वन्नात्मजातिकृतेन वै।
कंचित्कालं मृष्यतां वै ततोसि भविता द्विजः ॥ 3-219-12(24566)
सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥ 3-219-13(24567)
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु।
दाम्भिक्वो दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥ 3-219-14(24568)
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः।
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ 3-219-15(24569)
कर्मदोषेण विषमां गतिमाप्तोसि दारुणाम्।
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥ 3-219-16(24570)
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः।
लोकवृत्तान्ततत्वज्ञा नित्यं धर्मपरायणाः ॥ 3-219-17(24571)
व्याध उवाच। 3-219-18x(2518)
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः।
एतद्विज्ञानसामर्थ्यं न बालै समतामियात् ॥ 3-219-18(24572)
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रयिस्य च।
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः ॥ 3-219-19(24573)
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ 3-219-20(24574)
अनिष्टनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते।
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ॥ 3-219-21(24575)
शोचतो न भवेत्किंचित्केवलं परितप्यते।
परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः ॥ 3-219-22(24576)
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः।
असंतोषपरा मूढाः संतोषं यानति पण्डिताः ॥ 3-219-23(24577)
असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम्।
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिं ॥ 3-219-24(24578)
न विषादे मनः कार्यं विषादो विषमुत्तमम्।
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥ 3-219-25(24579)
यंविषादोऽभिभवति विषमे समुपस्थिते।
तेजसा तस् हीनस्य पुरुषार्थो न विद्यते ॥ 3-219-26(24580)
अवश्यं क्रियमाणस् कर्मणो दृश्यते फलम्।
न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् ॥ 3-219-27(24581)
अथाप्युपायं पश्येत दुःखस् परिमोक्षणे।
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ 3-219-28(24582)
भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः।
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥ 3-219-29(24583)
न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोस्म्यहम्।
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥ 3-219-30(24584)
ब्राह्मण उवाच। 3-219-31x(2519)
कृतप्रज्ञोसि मेधावी बुद्धिश्च विपुला तव।
पापान्निवृत्तोसि सदा ज्ञानवृद्धोसि धर्मवित् ॥ 3-219-31(24585)
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु।
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतांवर ॥ 3-219-32(24586)
मार्कण्डेय उवाच। 3-219-33x(2520)
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह।
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥ 3-219-33(24587)
स तु गत्वाद्विजः सर्वां शुश्रूषां कृतवांस्तदा।
मातापितृभ्यामन्धाभ्यां यथान्यायं सुसंशितः ॥ 3-219-34(24588)
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर।
पृष्टवानसि यं तात धर्मं धर्मभृतांवर ॥ 3-219-35(24589)
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम।
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता ॥ 3-219-36(24590)
युधिष्ठिर उवाच। 3-219-37x(2521)
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम्।
सर्वधर्मविदांश्रेष्ठ कथितं मुनिसत्तम ॥ 3-219-37(24591)
सुखश्राव्यतया विद्वन्मुहूर्त इव मे गतः।
न हि तृप्तोस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥ 3-219-38(24592)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोनिविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-219-20 गुणैः गुणकार्यैः सुखदुःखमोहैः ॥ 3-219-24 गताध्वानः प्राप्तज्ञानमार्गाः ॥ 3-219-29 बुद्धेस्तत्त्वज्ञानात्। परं ब्रह्म गताः प्राप्ताः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|